संस्कृत-वाक्यानि (Sanskrit sentences) -

 संस्कृत-वाक्यानि (Sanskrit sentences) -

कार्यालयः (Office)
• भवान् कति दिनानि विरामं स्वीकरोति ? = How many days of leave are you taking ?
• एषु दिनेषु महान् कार्यभारः । = Of late the weight of work is unbearable.
• इमां सूचनाफलके स्थापयतु । = Put this up on the notice board.
• अत्र हस्तांकनं करोतु । = Sigh here, please.
• सः विरामं स्वीकृतवान् । = He is on leave.
• अस्मिन् विषये पुनः अपि चिन्तयामि । = I will think about this again.
• आगामि सप्ताहे मां पश्यतु । = See me next week.
• अस्मिन् विषये अनन्तरं वदामि । = I'll tell you about it later.
• एतत् अहं अवश्यं स्मरामि । = I'll certainly remember this.
• भवदुक्तं सर्वं ज्ञातवान् भोः । = I have understood what you said.
• अत्र तस्य एव सर्वाधिकारः । = He is all in all here.
• मम कृते काऽपि दूरवाणी आगता वा ? = Any phone calls for me ?
• भवतः कृते दूरवाणी आगता आसीत् । = There was a phone call for you.
• भवान् कस्मिन् स्थाने नियुक्तः अस्ति ? = Which post do you occupy in the office ?
• एषः सर्वदा आगत्य पीडयति । = He troubles me always.
• इदानीं समयः अतीतः । = It is getting late.
• कृपया श्वः आगच्छतु । = Come tomorrow,please.
• सः आगतवान् इति स्मरामि । = I remember, he came here.
• पञ्चवादनपर्यन्तं अत्रैव आसीत् । = He was here till 5.00.
• मां आहूतवान् वा ? = Did you call me?
• तद् व्यवस्थां अहं करोमि । = I will see to that arrangement.
• कार्यालयस्य समाप्तिः कदा ? = When does your office close ?
• एतद्विषये श्वः पुनरपि स्मारयतु । = Remind me about this tomorrow.
• तं अत्र आगन्तुं सूचयतु । = Ask him to come here.
• किमर्थं इदानीं अपि कार्यं न आरब्धम् ? = Why hasn't the work begun ?
• अन्येषां उपहासेनैव कालं यापयति । = He spends time criticizing othere.
• मया किं करणीयं, वदतु । = Tell me what I should do.
• अहं किं करोमि भोः ? = What shall I do ?
• अस्तु, परिशीलयामः । = Be it so, let us see.
• आगच्छतु, किञ्चित् काफीं पिबामः । = Come, let's have a cup of coffee.
• भवान् शीघ्रं प्रत्यागच्छति वा ? = Are you going to be back soon ?
• कृपया उपविशतु । = Please, sit down.
• पञ्चनिमेषेषु एतद् कृत्वा ददामि । = I'll get it done in five minutes.
• अद्य सः अत्र नास्ति किल । = As you know, he is not here today.
• सः एकसप्ताहाभ्यन्तरे आगच्छेत् । = He may be back in a week's time.
आरोग्यम् (Health)[सम्पाद्यताम्]
• मम आरोग्यं समीचीनं नास्ति । = I am not well.
• महती पादवेदना । = Terrible leg pain.
• सामान्यतः शिरोवेदना तदा तदा आगच्छति । = Generally I get headache now and then.
• किञ्चित् ज्वरः इव । = Feel a little feverish...
• वैद्यं पश्यतु । = Consult a doctor.
• मम वमनशङ्का । = I feel like vomitting.
• वैद्यस्य निर्देशनं स्वीकरोतु । = Get a doctor's advice.
• किमर्थं कण्ठः अवरुद्धः ? = Why is there the blocking of the throat ?
• अहं अतीव श्रान्तः । = I am very tired.
• तस्य आरोग्यं कथं अस्ति ? = How is his health ?
• अद्य किञ्चित् उत्तमा (देहस्थितिः ) । = A bit better today.
• प्रातः आरभ्य लघु शिरोवेदना । = Slight head-ache since morning.
• आरोग्यं तावत् सम्यक् नास्ति । = Somehow, my health is not good.
• वैद्यं कदा दृष्टवान् ? = When did you see the doctor last ?
• उत्साहः एव नास्ति भोः । = Don't feel active, you know.
• ह्यः तु स्वस्थः आसीत् । = He was all right yesterday.
• किं अद्य अहं भोजनं करोमि वा ? = Shall I have my meals today ?
• अद्य ज्वरः कथं अस्ति ? = How is the fever today ?
• यथावत् । = As usual.
• तदा तदा उदरवेदना पीडयति किल ? = You get stomach-ache now and then, don't you ?
• ज्वरपीडितः वा? कदा आरभ्य ? = Fever ? Since when ?
• अय्यो! रक्तं स्रवति ! = Oh! Blood is coming out.
• अपघाते सः जीवितः इत्येव विशेषः । = It is a miracle, he survived the accident.
• सः चिकित्सालये प्रवेशितः । = He is admitted to the hospital.
• मम शिरः भ्रमति इव । = I feel giddy.
समयः (Time)[सम्पाद्यताम्]
• कः समयः ? = What is the time?
• सपादचतुर्वादनम् । = A quarter past four.
• द्विवादने अवश्यं गन्तव्यं अस्ति । = I must leave at 2.
• त्रिवादने एकं यानं अस्ति । = There is a bus at three.
• पादोन षड्वादने भवान् मिलति वा ? = Will you meet at a quarter to six ?
• सार्धपञ्चवादने अहं गृहे तिष्ठामि । = I will be at home at half past five.
• पञ्च ऊन दशवादने मम घटी स्थगिता । = My watch stoppped at 5 minutes to 10 o'clock.
• संस्कृतवार्ताप्रसारः सायं दशाधिक षड्वादने । = The Sanskrit news bulletin is at 6.10 p.m.
• सार्धं द्विघण्टात्मकः कार्यक्रमः । = It is a programme for two and a half hours.
• षड्वादनपर्यन्तं तत्र किं करोति ? = What are you going to do there till six o'clock ?
• शाला दशवादनतः किल ? = The school is from 10 o'clock, isn't it ?
• इतोऽपि यथेष्टं समयः अस्ति । = Still there is a lot of time.
• सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति । = He does Yogasana from 6 A.M. to 7 A.M.
• मम घटी निमेषद्वयं अग्रे सरति । = My watch goes two minutes fast every day.
• समये आगच्छतु । = Come in time.
• अरे! दशवादनम् ! = Oh! it is 10 o'clock.
• भवतः आकाशवाणी समयः वा? = Is yours the radio time ?
• इदानीं यथार्थः समयः कः ? = What is the exact time now ?
• किमर्थं एतावान् विलम्बः ? = Why (are you) so late ?
• इदानीं भवतः समयावकाशः अस्ति वा ? = Are you free now? (Can you spare a few minutes for me ?)
• रविवासरे कः दिनाङ्कः ? = What date is Sunday ?
• रविवासरे चतुर्विंशतितमदिनाङ्कः ? = Sunday is 24th ?
• पञ्चदशदिनाङ्के कः वासरः ? = Which/What day is 15th ?
• भवतः शाला कदा आरब्धा ? = When did your school begin ?
• जून प्रथम दिनाङ्के । = On 1st June.
• भवतः जन्मदिनाङ्कः कः ? = Which/What is your date of birth ?
• अष्टादश दश षडशीतिः । = 18-10-63 (Should be 18-10-86).
दूरवाणी (Telephone)[सम्पाद्यताम्]
• हरिः ओम् । = Hello
• प्रतिष्ठानस्य कार्यालयः वा ? = Is it the Pratishthana office ?
• राजुमहोदयस्य गृहं वा ? = Is it Mr. Raju's house ?
• एषा षट् शून्य शून्य शून्य चत्वारि वा ? = Is it 60004 ?
• कः तत्र ? (कः संभाषणं करोति ?) = Who is speaking, please ?
• अहं कृष्णः । = I am Krishna, speaking.
• कः अपेक्षितः ? = Whom do you want to speak to ?
• कृष्णः गृहे अस्ति वा ? = Is Mr. Krishna at home ?
• क्षम्यतां, सः गृहे नास्ति । = Sorry, he is not at home.
• कृपया एतत् कृष्णं सूचयतु । = Would you kindly pass this on to Mr. Krishna ?
• कृपया तं आह्वयति वा ? = Would you please call him ?
• अस्तु, एकक्षणं तिष्ठतु । = Yes, wait a minute, please.
• कः दूरवाणीं कृतवान् इति वदामि ? = Who shall I say phoned him up ?
• सः श्वः आगच्छेत् । = He may be back, tomorrow.
• अस्तु, श्वः पुनः दूरवाणीं करोमि । = O.K. I will ring him up again tomorrow.
• किं, इदानीमपि न आगतवान् वा ? = What ? Hasn't he come yet ?
• तस्य दूरवाणी संख्या का ? = What is his phone number ?
• गृहे मिलेत् वा ? = Will he be available at home ?
• मद्रासतः इदानीमपि न आगतवान् । = Not yet returned from Madras.
• अवश्यं सूचयामि । = Certainly I will inform him.
• स्थापयामि वा ? = Shall I put down the phone ? (Shall I hang up ?).
• किञ्चित् उच्चैः वदतु । = Speak louder, please.
वाणिज्यम् (Commerce)[सम्पाद्यताम्]
• रूप्यकस्य कति फलानि ? = How many a rupee ?
• एकैकस्य पञ्चविंशतिपैसाः । = 25 paise each, please.
• रूप्यकस्य पञ्च । = Five per rupee.
• शुद्धं नवनीतं ददातु । = Give me good butter, please.
• पुस्तकानि समाप्तानि । = The book is out of stock.
• एतद् पुस्तकं नास्ति वा ? = Don't you have this book ?
• तण्डुलः सम्यक् नास्ति । = The rice is not good.
• दशपैसाः न्यूनाः सन्ति । = The amount is short by 10 paise.
• मम व्यवहारं समापयतु । = Please settle my account.
• भवतः परीवृत्तिः कथमस्ति ? = How is your business ?
• तत्र गमनं मास्तु भोः, सः बहुमूल्यं वदति। = He is very expensive, let us not go to him.
• कृपया देयकं / प्राप्तिपत्रं ददातु । = Please give me the bill/receipt.
• विंशतिरूप्यकाणि वा ? तर्हि मास्तु । = Is it Rs.20 ? Then I don't want it.
• आवश्यकं आसीत्, परन्तु भवान् मूल्यं अधिकं वदति । = I wanted it, but you quote a very high price.
• भवतः कृते इति न्यूनमूल्येन ददामि । = I am selling it at a lower price to you.
• पार्श्वापणे पृच्छतु । = Please enquire at the next shop.
• एतावत् न्यूनमूल्येन अन्यत्र कुत्रापि न मिलति । = You can't get it cheaper anywhere else.
• एकपञ्चाशत् रू/ स्वीकुर्वन्तु । = Please take Rs.51.
• नैव, तत्र विवादः एव नास्ति । = No, no haggling, please.
• एतद् वस्त्रं कुत्र क्रीतवन्तः ? = Where did you buy this cloth ?
• भवान् अधिकं (मूल्यं) दत्तवान् । = You paid more.
• {\rm `}किलो{\rm '} कृते कति ? = How much is this per kilo ?
• फेनकस्य मूल्यं कियत् ? = How much does this soap cost ?
• {\rm `}किलो{\rm '} दालस्य कृते कति रूप्यकाणि ? = How much is the pulse per kilo ?
• दन्तफेनः अस्ति वा ? = Have got toothpaste ?
• तिष्ठतु, ददामि । = Please wait, I'll give you.
• कति/कियत् ददामि ? = How much shall I give you ?
• इदानीं मास्तु, अनन्तरं आगच्छामि । = Not now, I will come later.
• एतद् समीचीनं अस्ति वा ? = Is it good ?
वातावरणम् (Weather)[सम्पाद्यताम्]
• वायुः एव नास्ति। = The wind is still.
• आरात्रि वृष्टिः आसीत् । = It rained for the whole night.
• घर्मो घर्मः । = Very hot indeed.
• किं भोः ! क्लिन्नः अस्ति ! = You have perspired all over.
• प्रातः आरभ्य एवमेव वृष्टिः । = It has been raining like this since morning.
• अद्य वृष्टिः भवति वा ? = Is it going to rain today ?
• किं एषा उष्णता भोः ! = What sultry weather, you know.
• शैत्यं अहो शैत्यं ! = It is very cold indeed.
• महती वृष्टिः । = Heavy rain.
• वृष्टितः एव भयम् । = I am frightened only of the rain.
• दिने दिने शीतं अधिकं भवति । = The cold is increasing day by day.
• यद्वा तद्वा वृष्टिः । = Too much rain/It is raining cats and dogs.
• वायुरहो वायुः । = Too much of wind/Too windy.
• अत्र वायुः सुष्ठु वाति । = Nice breeze here.
• बहु औष्ण्यं किल ? = It is very hot, isn't it ?
• अद्य किञ्चित् शैत्यं अधिकम् । = It is a bit colder today.
• भवतः प्रदेशे वृष्टिः कथम् ? = Have you had rains in your place ?
• कुत्रापि वृष्टिः नास्ति । = No sign of rain anywhere.
गृहसम्भाषणम् (Domestic)[सम्पाद्यताम्]
• अद्य प्रातराशः का ? = What have you cooked for breakfast ?
• अद्य पाको नाम पाकः (अद्यतन पाकः बहु सम्यक् अस्ति । = Today's cooking is really grand.
• किमर्थं अद्य रुचिरेव नास्ति । = Why dishes are not tasty today ?
• रुचिकरं नास्ति वा ? = Aren't they tasty, really ?
• लवणं एव नास्ति । = No salt at all.
• व्यञ्जने लवणं न्यूनम् । = This curry has no salt at all.
• अन्नं बहु उष्णम् । = The rice is very hot.
• तद् किञ्चित् परिवेषयतु । = Serve the other dish a bit more.
• जलं पूरयतु । = Get me some water, please.
• एकचषकं जलं आनयतु । = Get me a glass of water, please.
• किञ्चित् व्यञ्जनं परिवेषयतु । = Get me some dry curry.
• अन्नं = rice
• क्वथितम् = Sambar
• तक्रम् = buttermilk
• व्यञ्जनम् = dry curry
• सारः = soup
• उपदंशम् = pickle
• तैलम् = oil
• उपसेचनम् = Chutney
• लवणम् = salt
• घृतम् = ghee
• पर्पटम् = Pappadam
• किं, न रोचते वा ? = Aren't they tasty ? Don't you like them ?
• लवणं किञ्चित् अधिकम् = A bit too much of salt in it.
• किं अम्ब, प्रतिदिनं सारः एव ? = Dear, why, only soup/Rasam every day ?
• अद्य अपि सारः एव ? = Just soup today also ?
• किं अम्ब ! कियत् परिवेषितवती ? = Dear, you have served a bit too much.
• कियद् अस्ति तत् ? = Oh ! That is not much.
• अम्ब ! किञ्चित् उपदंशं परिवेषयतु । = Mummy, get me some pickles, please.
• अम्ब ! अद्य कदा वा भोजनम् ? = Mummy, What time are you going to serve lunch/dinner today ?
• सावधानं परिवेषयतु । = Serve slowly, please.
• अद्य भूरि भोजनम् । = Today we have a grand meal.
• अधिकं जलं मा पिबतु, शीतं भवति । = Don't drink too much water. You will catch a cold.
• अनेन व्यञ्जनं करणीयं आसीत् । = You should have cooked dry curry with this vegetable.
• तेमनं न परिवेषितवती एव । = You have not served 'curd sambar' at all.
• पुनः एकवारं पायसं परिवेषयतु । = May I have a second helping with 'payasam ' ?
• उत्तिष्ठतु, भोजनं कुर्मः । = Get ready, please, let us have meals.
• इदमिदानीं भोजनं समाप्तम् । = I have just had meals, thank you.
• अहं रोटिकां न खादामि । = I do not eat 'chapathis'.
• रोटिका अस्ति चेत् समीचीनं (अभविष्यत्) । = It would have been wonderful had there been 'chapatis'.
• किं भोः, भोजनमेव न करोति ? = Why dear, you do not eat anything ?
• अन्ने केवलं पाषाणाः । = A lot of stones in the rice.
• दध्यन्नं परिवेषयामि वा ? = Shall I serve curd-rice ?
• तक्रं न इच्छति वा ? = Don't you want buttermilk ?
• भोजनं सम्यक् करोति चेत् क्रीडनकं ददामि । = Eat well, please. I will give a doll.
• तेषां गृहे किं खादितवान् ? = What did you eat in their house ?
• शीघ्रं भोजनं करोतु, विलम्बः अभवत् । = It is getting late, eat quickly.
• इदानीं मास्तु, अनन्तरं ददामि । = Not now, I will give it to you later.
• किञ्चित् वा दध्यन्नस्य भोजनं करोतु । = Eat at least a little curd-rice.
• अद्य मधुरभक्ष्यं किम् ? = What sweets have you prepared today ?
• बहु मधुरम् । = It is too sweet.
• अम्ब, बुबुक्षा भवति । = Mummy, I am hungry.
• मम तु इदानीं अतीव बुबुक्षा । = I am very hungry.
• भोजनं सिद्धं वा ? शालायाः विलम्बः भवति । = Have you finished eating? It is getting late for school.
• भोजनं कृत्वा निद्रां करोतु । = Have a nap after meals.
• अस्तु, परिवेषणं करोमि । = Yes, I am going to serve in a minute.
• किञ्चित् स्वीकरोतु । = Take a little.
• मास्तु, अधिकं भवति । = No, thank you. It is too much for me.
• परिवेषणार्थं कियान् विलम्बः ? = Dear, how long do you take to serve ?
• यावद् रोचते तावदेव स्वीकरोतु । = Eat only what you can.
• सर्वे मिलित्वा भोजनं कुर्मः । = Let us eat together.
• अय्यो, घृतं एव न परिवेषितवती अहम्। = My goodness ! I haven't served ghee at all.
• भवता वक्तव्यं आसीत् किल ? = Shouldn't you have told me that ?
• कियान् विलम्बः भोः, शीघ्रं आगच्छतु । = How long do you take,come quickly.
• सः इदानीं अपि न आगतवान् वा ? = Hasn't he come yet ?
• स्थालिका स्थापिता वा ? = Have you laid the table ? (Have you set the plates for meals ?)
• स्थालिका एव न स्थापिता ! = You haven't laid the table yet !
• लवणं किञ्चित् योजयतु, सम्यक् भवति । = Add some salt. It will be O.K.
• हस्तं प्रक्षाल्य उपविशतु । = Wash (the hand ) before you come for meals.
• मास्तु, यथेष्टं अभवत् । = No, thank you, I have had enough.
• सङ्कोचः मास्तु, आवश्यकं चेत् पृच्छतु । = Please feel at home. Ask for anything you want.
• न, मम सङ्कोचः एव नास्ति । = No, I do not have any reservations.
• किञ्चित् । = A little more.
• अम्ब, अत्र किञ्चित् परिवेषयतु । = Mummy, get me some more.
• कः लवणं आवश्यकं इति उक्तवान् ? = Who has asked for salt ?
• क्वथितापेक्षया सारः एव रुचिकरः । = The soup is tastier than the `sambar'.
• एकैकशः वदतु नाम । = Speak one at a time, please.
• विना शब्दं भोजनं कुर्वन्तु नाम । = Eat without making too much noise.
• प्रथमः कः ? सः वा भवान् वा ? = Who is first ? He or you ?
• पाकः शीतलं भवति । = Dishes are getting colder.
• पाकः तदानीं एव सिद्धः । = Lunch/Dinner is ready.
• व्याघरणं कृतं चेत् पाकः सिद्धः । = Everything is ready. I have to season the curry, that is all.(?)
• शाकः नास्ति, अहं किं करोमि ? = No vegetables, what can I do ?
• भवती पक्तुं एव न जानाति अम्ब ! = Mummy, you do not know how to cook.
• ह्यस्तनं व्यञ्जनं कियत् रुचिकरं आसीत् ! = How tasty was yesterday's dry curry !
• कतिवारं उक्तवान् एतद् मह्यं न रोचते इति ? = How many times did I tell you that I don't like it.
• तथा चेत् श्वः भवान् एव पाकं करोतु । = In that case you cook the food yourself tomorrow.
• अस्य रुचिं पश्यतु । = Taste this, please.
• क्षीरं दूषितम् |= Milk has become sour.
• तूष्णीं भोजनं करोतु वा ? = Will you eat without comments ?
• पुनः पुनः चर्वणं कृत्वा खादतु । = Chew the food well before you swallow it.
• परिवेषणं कृतं, शीघ्रं आगच्छतु । = Food is already served. Come quickly.
• भवान् किमपि न खादितवान् ? = You haven't eaten anything.
• पुनः परिवेषयतु । = Serve again.

Comments

Post a Comment